|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.198. अध्यायः 198
Mahabharata - Adi Parva - Chapter Topics
सौदासभार्यायां वसिष्ठेन पुत्रोत्पादनकारणं पृष्टवन्तमर्जुनंप्रति पुनः कल्माषपादकथाकथनम्॥ 1 ॥ मैथुनधर्मस्य ब्राह्णं भक्षितवतः सौदासस्य ब्राह्मण्या शापः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
`गन्धर्व उवाच। 1-198-0x(1123)(8802)
पुनश्चैव महातेजा विश्वामित्रजिघांसया।
अग्निं संभृतवान्घोरं शाक्तेयः सुमहातपाः॥ 1-198-1(8803)
वासिष्ठसंभृतश्चाग्निर्विश्वामित्रहितैषिणा।
तेजसा वह्नितुल्येन ग्रस्तः स्कन्देन धीमता॥' 1-198-2(8804)
अर्जुन उवाच। 1-198-3x(1124)
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे।
कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता॥ 1-198-3(8805)
जानता वै परं धर्मं वसिष्ठेन महात्मना।
अगम्यागमनं कस्मात्कृतं तेन महर्षिणा॥ 1-198-4(8806)
अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे।
एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः॥ 1-198-5(8807)
गन्धर्व उवाच। 1-198-6x(1125)
धनञ्जय निबोधेयं यन्मां त्वं परिपृच्छसि।
वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम्॥ 1-198-6(8808)
कथितं ते मया सर्वं यथा शप्तः स पार्थिवः।
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना॥ 1-198-7(8809)
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः।
निर्जगाम पुराद्राजा सहदारः परन्तपः॥ 1-198-8(8810)
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे।
नानामृगगणाकीर्णं नानासत्वसमाकुलम्॥ 1-198-9(8811)
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम्।
अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमन्॥ 1-198-10(8812)
स कदाचित्क्षुधाविष्टो मृगयन्भक्ष्यमात्मनः।
ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने॥ 1-198-11(8813)
ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ।
तौ तं वीक्ष्य सुवित्रस्तावकृतार्थौ प्रधावितौ॥ 1-198-12(8814)
तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात्।
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत॥ 1-198-13(8815)
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि सुव्रत।
आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः॥ 1-198-14(8816)
अप्रमत्तः स्थि धर्मे गुरुशुश्रूषणे रतः।
शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि॥ 1-198-15(8817)
ऋतुकाले तु संप्राप्ते भर्तृव्यसनकर्शिता।
अकृतार्था ह्यहं भर्त्रा प्रसवार्थं समागता॥ 1-198-16(8818)
प्रसीद नृपतिश्रेष्ठ भर्ताऽयं मे विसृज्यताम्।
एवं विक्रोशमानायास्तस्यास्तु न नृशंसवत्॥ 1-198-17(8819)
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम्।
तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन्भुवि॥ 1-198-18(8820)
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत्।
ततः सा शोकसंतप्ता भर्तृव्यसनकर्शिता॥ 1-198-19(8821)
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा।
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत्॥ 1-198-20(8822)
प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः।
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः॥ 1-198-21(8823)
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम्।
`तेन प्रसाद्यमाना सा प्रसादमकरोत्तदा।'
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः॥ 1-198-22(8824)
तेन संगम्य ते भार्या तनयं जनयिष्यति।
सते वंशकरः पुत्रो भविष्यति नृपाधम॥ 1-198-23(8825)
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा।
तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम्॥ 1-198-24(8826)
वसिष्ठश्च महाभागः सर्वमेतदवैक्षत।
ज्ञानयोगेन महता तपसा च परन्तप॥ 1-198-25(8827)
मुक्तशापश्च राजर्षिः कालेन महता ततः।
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः॥ 1-198-26(8828)
न हि सस्मार स नृपस्तं शापं काममोहितः।
देव्याः सोऽथ वचः श्रुत्वा संभ्रान्तो नृपसत्तमः॥ 1-198-27(8829)
तं शापमनुसंस्मृत्य पर्यतप्यद्भृशं तदा।
एतस्मात्कारणाद्राजा वसिष्ठं सन्ययोजयत्।
स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः॥ ॥ 1-198-28(8830)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अष्टनवत्यधिकशततमोऽध्यायः॥ 198 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|